*🗓*आज का पञ्चाङ्ग*🗓*
*🎈दिनांक 07अप्रैल 2026*
*🎈 वार- मंगलवार *
*🎈 विक्रम संवत् - 2083*
*🎈 अयन - दक्षिणायण*
*🎈 ऋतु - शिशिर*
*🎈 मास - वैशाख मास*
*🎈 पक्ष - कृष्ण पक्ष,*
*🎈तिथि- पंचमी 16:34:07* तत्पश्चात्
तिथि षष्ठी*
*🎈 नक्षत्र - ज्येष्ठा 29:53:05* तक तत्पश्चात् मूल *
*🎈योग - व्यतिपत 16:15:35*तक तत्पश्चात् वरियान*
*🎈करण - तैतुल 16:34:07* तक तत्पश्चात् कौलव होगा।
*🎈राहुकाल -03:46 am से 05:20 am (नागौर राजस्थान मानक समयानुसार)*हर जगह का अलग होगा
(राहुकाल वह समय होता है जिसमे किसी भी नये अथवा शुभ कार्य प्रारम्भ करने से बचना चाहिए।)
*🎈 चन्द्र राशि वृश्चिक till 29:53:05*
*🎈 चन्द्र राशि- धनु from 29:53:05*
*🎈 सूर्योदय - 06:20:41*
*🎈 सूर्यास्त - 18:54:03*
*(सूर्योदय एवं सूर्यास्त ,नागौर राजस्थान मानक समयानुसार)*
*🎈दिशा शूल- उत्तर दिशा में*
( किसी भी विशेष कार्य हेतु दिशा शूल वाली दिशा में जाने से बचना चाहिए, यद्यपि यदि उसी दिन जाकर उसी दिन लौटना हैं, अथवा व्यवसाय के दृष्टिकोण से प्रतिदिन जाना ही पड़ता है तो प्रभाव कम हो जाएगा, फिर इस पर विचार करने की आवश्यकता नही है, यदि किसी कारण वश दिशा शूल में जाना ही पड़े तो सूर्योदय से पूर्व निकलना श्रेयस्कर होता है, अन्यथा एक दिन पूर्व प्रस्थान रखकर भी निकला जा सकता हैं।)
*🎈ब्रह्ममुहूर्त - 04:48 ए एम से 05:34 ए एम*
*🎈अभिजित मुहूर्त- 12:12 पी एम से 01:03 पी एम*
*🎈 निशिता मुहूर्त - 12:14 ए एम, अप्रैल 08 से 01:00 ए एम, अप्रैल 08*
*🎈 अमृत काल- 08:01 पी एम से 09:49 पी एम*
*🎈रवि योग- 05:54 ए एम, अप्रैल 08 से 06:18 ए एम, अप्रैल 08*
*🎈 व्रत एवं पर्व- मासिक व्रत
*🎈विशेष:- वैशाख मास महात्म्य *
👉 जय माँ आदिशक्ति सच्चियाय 🪔
🎉विक्रम सम्वत 2083 का मन्त्री मण्डल🛟
💥राजा गुरु👑 - शासन व्यवस्था के स्वामी 💥सेनाधिपति चन्द्र⚔️ - रक्षा मन्त्री एवं सेनानायक
💥मन्त्री मंगल⚜️ - नीतियों एवं प्रशासन के स्वामी धान्याधिपति बुध🌻 - रबी की फसलों के स्वामी
💥सस्याधिपति गुरु🌾 - खरीफ की फसलों के स्वामी मेघाधिपति चन्द्र🌧 - मेघ एवं वर्षा के स्वामी
💥धनाधिपति गुरु💰 - धन एवं कोष के स्वामी नीरसाधिपति गुरु🪙 - धातु, खनिज आदि के स्वामी
💥रसाधिपति शनि🍯 - रस एवं द्रव पदार्थों के स्वामी फलाधिपति चन्द्र🍎 - फल-पुष्पादि के स्वामी
🪴🪴🪴🪴🪴🪴🪴🪴🪴
नागौर, राजस्थान, (भारत)
मानक सूर्योदय के अनुसार।
*🛟*🛟चोघडिया, दिन का🛟*
🛟चोघडिया, रात्🛟*
*🛟
★√*★√*★√*★√*★√*★√*★√*
🚩*श्रीगणेशाय नमोनित्यं*🚩
🚩*☀जय मां सच्चियाय* 🚩
#🌕 👉 👉🦚❤️💐 🌼🪔🏓🎊
💕🛟प्रात: विशेष🕉️🌺
👣🕉️ 🌹🌹 🌹🌹।। 🔶केतु :🔶
🔶🌹हरिहर स्तोत्रम🌹
धर्मार्थकाममोक्षाख्यचतुर्वर्गप्रदायिनौ ।
वन्दे हरिहरौ देवौ त्रैलोक्यपरिपायिनौ ॥१॥
एकमूर्ती द्विधा भिन्नौ संसारार्णवतारकौ ।
वन्देऽहं कामदौ देवौ सततं शिवकेशवौ ॥२॥
दयामयौ दीनदरिद्रतापहौ महौजसौ मान्यतमौ सदा समौ ।
उदारलीलाललितौ सितासितौ नमामि नित्यं शिवकेशवावहम ॥३॥
अनन्तमाहात्म्यनिधी विधिस्तुतौ श्रिया युतौ लोकविधानकारिणौ ।
सुरासुराधीशनुतौ नुतौ जगत्पती विधत्तां शिवकेशवौ शिवम ॥४॥
जगत्रयीपालननाशकारकौ प्रसन्नहासौ विलसत्सदाननौ ।
महाबलौ मञ्जुळमूर्तिधारिणौ शिवं विधत्तां शिवकेशवौ सदा ॥५॥
महस्विनौ मोदकरौ परौ वरौ मुनीश्वरैः सेवितपादपङ्कजौ ।
अजौ सुजातौ जगदीश्वरौ सदा शिवं विधत्तां शिवकेशवौ मम ॥६॥
नमोऽस्तु नित्यं शिवकेशवाभ्यां स्वभक्तसंरक्षणतत्पराभ्याम ।
देवेश्वराभ्यां करुणाकराभ्यां लोकत्रयीनिर्मितिकारणाभ्याम ॥७॥
सलीलशीलौ महनीयमूर्ती दयाकरौ मञ्जुळसच्चरित्रौ ।
महोदयौ विश्वविनोदहेतू नमामि देवौ शिवकेशवौ तौ ॥८॥
त्रिशूलपाणिं वरचक्रपाणिं पीताम्बरं स्पष्टदिगम्बरं च ।
चतुर्भुजं वा दशबाहुयुक्तं हरिं हरं वा प्रणमामि नित्यम ॥९॥
कपालमालाललितं शिवं च सद्वैजयन्तीस्रगुदारशोभम ।
विष्णुं च नित्यं प्रणिपत्य याचे भवत्पदाम्भोरुहयोः स्मृतिः स्तात ॥१०॥
शिव त्वमेवाऽसि हरिस्वरूपो हरे त्वमेवाऽसि शिवस्वरूपः ।
भ्रान्त्या जनास्त्वां द्विविधस्वरूपं पश्यन्ति मूढा ननु नाशहेतोः ॥११॥
हरे जना ये शिवरूपिणं त्वां त्वद्रूपमीशं कलयन्ति नित्यम ।
ते भाग्यवन्तः पुरुषाः कदाऽपि न यान्ति भास्वत्तनयस्य गेहम ॥१२॥
शम्भो जना ये हरिरूपिणं त्वां भवत्स्वरूपं कमलालयेशम ।
पश्यन्ति भक्त्या खलु ते महान्तौ यमस्य नो यान्ति पुरं कदाचित ॥१३॥
शिवे हरौ भेदधियाऽऽधियुक्ता मुक्तिं लभन्ते न जना दुरापाम ।
भुक्तिं च नैवेह परन्तु दुःखं संसारकूपे पतिताः प्रयान्ति ॥
हरे हरौ भेददृशो भुशम वै सम्सारसिन्धौ पतिताः सतापाः ।
पापाशया मोहमयान्धकारे भ्रान्ता महादुःखभरं लभन्ते ॥१५॥
सन्तो लसन्तः सुतरां हरौ च हरे च नित्यं बहुभक्तिमन्तः ।
अन्तर्महान्तौ शिवकेशवौ तौ ध्यायन्त उच्चैर्मुदमाप्नुवन्ति ॥१६॥
हरौ हरे चैक्यमुदारशीलाः पश्यन्ति शश्वत्सुखदायिलीलाः ।
ते भुक्तिमुक्ती समवाप्य नूनं सुखं दुरापं सुतरां लभन्ते ॥१७॥
शिवे शिवेशेऽपि च केशवे च पद्मापतौ देववरे महान्तः ।
भेदं न पश्यन्ति परन्तु सन्तस्तयोरभेदं कलयन्ति सत्यम ॥१८॥
रमापतिं वा गिरिजापतिं वा विश्वेश्वरं वा जगदीश्वरं वा ।
पिनाकपाणिं खलु शार्ङ्गपाणिं हरि हरं वा प्रणमामि नित्यम ॥१९॥
सुरेश्वरं वा परमेश्वरं वा वैकुण्ठलोकस्थितमच्युतं वा ।
कैलासशैलस्थितमीश्वरं वा विष्णुं च शंभुं च नमामि नित्यम ॥२०॥
हरिर्दयार्द्राशयतां प्रयातो हरो दयालूत्तमभावमाप्तः ।
अनेकदिव्यास्त्रधरः परेशः पायादजस्रं कृपया नतं माम ॥ २१॥
शेषोऽस्ति यस्याऽऽभरणत्वमाप्तो यद्दा सुशय्यात्वमितः सदैव ।
देवः स कोऽपीह हरिर्हरो वा करोतु मे मञ्जुळमङ्गळं द्राक ॥२२॥
हरिं हरं चापि भजन्ति भक्त्या विभेदबुद्धिं प्रविहाय नूनम ।
सिद्धा महान्तो मुनयो महेच्छाः स्वच्छाशया नारदपर्वताद्याः ॥२३॥
सनत्कुमारादय उन्नतेच्छा मोहेन हीना मुनयो महान्तः ।
स्वान्तः स्थितं शङ्करमच्युतं च भेदं परित्यज्य सदा भजन्ते ॥२४॥
शिष्टा वसिष्ठादय आत्मनिष्ठाः श्रेष्ठाः स्वधर्मावनकर्मचित्ताः ।
हृत्तापहारं मलहीनचित्ता हरि हरं चैकतया भजन्ते ॥२५॥
अन्ये महात्मान उदारशीला भृग्वादयो ये परमर्षयस्ते ।
पश्यन्ति चैक्यं हरिशर्वयोः श्रीसंयुक्तयोरत्र न संशयोऽस्ति ॥२६॥
इन्द्रादयो देववरा उदारा त्रैलोक्यसंरक्षणदत्तचित्ताः ।
हरिं हरं चैकस्वरूपमेव पश्यन्ति भक्त्या च भजन्ति नूनम ॥२७॥
सर्वेषु वेदेषु खलु प्रसिद्धवैकुण्ठकैलासगयोः सुधाम्नोः ।
मुकुन्दबालेन्दुवतंसयोः सच्चरित्रयोरीश्वरयोरभेदः ॥२८॥
सर्वाणि शस्त्राणि वदन्ति नूनं हरेर्हरस्यैक्यमुदारमूर्तेः ।
नास्त्यत्र सन्देहलवोऽपि सत्यं नित्यं जना धर्मधना गदन्ति ॥२९॥
सर्वैः पुराणैरिदमेव सूक्तं यद्विष्णुशंभ्वोर्महनीयमूर्त्योः ।
ऐक्यं सदैवाऽस्ति न भेदलेशोऽप्यस्तीह चिन्त्यं सुजनैस्तदेवम ।३०॥
भेदं प्रपश्यन्ति नराधमा ये विष्णौ च शंभौ च दयानिधाने ।
ते यान्ति पापाः परितापयुक्ता घोरं विशालं निरयस्य वासम ॥३१॥
भूताधिपं वा विबुधाधिपं वा रमेश्वरं वा परमेश्वरं वा ।
पीताम्बरं वा हरिदम्बरं वा हरिं हरं वा पुरुषा भजध्वम ॥३२॥
महस्विवर्यं कमनीयदेहमुदारसारं सुखदायिचेष्टम ।
सर्वेष्टदेवं दुरितापहारं विष्णुं शिवं वा सततं भजध्वम ॥३३॥
शिवस्य विष्णोश्च विभात्यभेदो व्यासादयोऽपीह महर्षयस्ते ।
सर्वज्ञभावं दधतो नितान्तं वदन्ति वदन्ति चैवं कलयन्ति सन्तः ॥३४॥
महाशया धर्मविधानदक्षा रक्षापरा निर्जितमानसा ये ।
तेऽपीह विज्ञाः समदर्शिनो वै शिवस्य विष्णोः कलयन्त्यभेदम॥३५॥
हरिरेव हरो हर एव हरिर्नहि भेदलबोऽपि तयोः प्रथितः ।
इति सिद्धमुनीशयतीशवरा निगदन्ति सदा विमदाः सुजनाः ॥३६॥
हर एव हरिर्हरिरेव हरो हरिणा च हरेण च विश्वमिदम ।
प्रविनिर्मितमेतदवेहि सदा विमदो भव तौ भज भावयुतः ॥३७॥
हरिरेव बभूव हरः परमो हर एव बभूव हरिः परमः ।
हरिता हरता च तथा मिलिता रचयत्यखिलं खलु विश्वमिदम ॥३८॥
वृषध्वजं वा गरुढध्वजं वा गिरीश्वरं वा भुवनेश्वरं वा ।
पतिं पशूनामथवा यदूनां कृष्णं शिवं वा विबुधा भजन्ते ॥३९॥
भीमाकृतिं वा रुचिराकृतिं वा त्रिलोचनं वा समलोचनं वा ।
उमापतिं वाऽथ रमापतिं वा हरिं हरं वा मुनयो भजन्ते ॥४०॥
हरिः स्वयं वै हरतां प्रयातो हरस्तु साक्षाद्धरिभावमाप्तः ।
हरिर्हरश्चापि जगज्जनानामुपास्यदेवौ स्त इति प्रसिद्धिः ॥४१॥
हरिर्हि साक्षात हर एव सिद्धो हरो हि साक्षाद्धरिरेव चास्ते ।
हरिर्हरश्च स्वयमेव चैको द्विरूपतां कार्यवशात प्रबातः ॥४२॥
हरिर्जगत्पालनकृत्प्रसिद्धो हरो जगन्नाशकरः परात्मा ।
स्वरूपमात्रेण भिदामवाप्तौ द्वावेकरूपौ स्त इमौ सुरेशौ ॥४३॥
दयानिधानं विलसद्विधानं देवप्रधानं ननु सावधानम ।
सानन्दसन्मानसभासमानं देवं शिवं वा भज केशवं वा ॥४४॥
श्रीकौस्तुभाभरणमिन्दुकलावतंसं काळीविलासिनमथो कमलाविलासम ।
देवं मुरारिमथ वा त्रिपुरारिमीशं भेदं विहाय भज भो भज भूरिभक्त्या ॥४५॥
विष्णुः साक्षाच्छंभुरेव प्रसिद्धः शंभुः साक्षाद्विष्णुरेवास्ति नूनम ।
नास्ति स्वल्पोऽपीह भेदावकाशः सिद्धान्तोऽयं सज्जनानां समुक्तः ॥४६॥
शंभुर्विष्णुश्चैकरूपो द्विमूर्तिः सत्यं सत्यं गद्यते निश्चितं सत ।
अस्मिन्मिथ्या संशयं कुर्वते ये पापाचारास्ते नरा राक्षसाख्याः ॥४७॥
विष्णौ शंभौ नास्ति भेदावभासः सङ्ख्यावन्तः सन्त एवं वदन्ति ।
अन्तः किञ्चित्संविचिन्त्य स्वयं द्राक भेदं त्यक्त्वा तौ भजस्व प्रकामम ॥४८॥
विष्णोर्भक्ताः शंभुविद्वेषसक्ताः शंभोर्भक्ता विष्णुविद्वेषिणो ये ।
कामक्रोधान्धाः सुमन्दाः सनिन्दा विन्दन्ति द्राक ते नरा दुःखजालम ॥४९॥
विष्णौ शंभौ भेदबुद्धिं विहाय भक्त्या युक्ताः सज्जना ये भजन्ते ।
तेषां भाग्यं वक्तुमीशो गुरुर्नो सत्यं सत्यं वच्म्यहं विद्धि तत्त्वम ॥५०॥
हरेर्विरोधी च हरस्य भक्तो हरस्य वैरी च हरेश्च भक्तः ।
साक्षादसौ राक्षस एव नूनं नास्त्यत्र सन्देहलवोऽपि सत्यम ॥५१॥
शिवं च विष्णुं च विभिन्नदेहं पशयन्ति ये मूढधियोऽतिनीचाः ।
ते किं सुसद्भिः सुतरां महद्भिः संभाषणीयाः पुरुषा भवन्ति ॥५२॥
अनेकरूपं विदितैकरूपं महान्तमुच्चैरतिशान्तचित्तम ।
दान्तं नितान्तं शुभदं सुकान्तं विष्णुं शिवं वा भज भूरिभक्त्या ॥५३॥
हरे मुरारे हर हे पुरारे विष्णो दयाळो शिव हे कृपालो ।
दीनं जनं सर्वगुणैर्विहीनं मां भक्तमार्तं परिपाहि नित्यम ॥५४॥
हे हे विष्णो शंभुरूपस्त्वमेव हे हे शम्भो विष्णुरूपस्त्वमेव ।
सत्यं सर्वे सन्त एवं वदन्तः संसारब्धिं ह्यञ्जसा सन्तरन्ति ॥५५॥
विष्णुः शंभुः शंभुरेवास्ति विष्णुः शंभुर्विष्णुर्विष्णुरेवास्ति शंभुः ।
शंभौ विष्णौ चैकरूपत्वमिष्टं शिष्टा एवं सर्वदा सञ्जपन्ति ॥५६॥
दैवी संपद्विद्यते यस्य पुंसः श्रीमान सोऽयं सर्वदा भक्तियुक्तः ।
शंभुं विष्णुं चैकरूपं द्विदेहं भेदं त्यक्त्वा संभजन्मोक्षमेति ॥५७॥
येषां पुंसामासुरी संपदास्ते मृत्योर्ग्रासाः कामलोभाभिभूताः ।
क्रोधेनान्धा बन्धयुक्ता जनास्ते शंभुं विष्णुं भेदबुद्ध्या भजन्ते ॥५८॥
कल्याणकारं सुखदप्रकारं विनिर्विकारं विहितोपकारम ।
स्वाकारमीशं न कृतापकारं शिवं भजध्वं किल केशवं च ॥५९॥
सच्चित्स्वरूपं करुणासुकूपं गीर्वणभूपं वरधर्मयूपम ।
संसारसारं सुरुचिप्रसारं देवं हरिं वा भज भो हरं वा ॥६०॥
आनन्दसिन्धुं परदीनबन्धुं मोहान्धकारस्य निकारहेतुम ।
सद्धर्मसेतुं रिपुधूमकेतुं भजस्व विष्णुं शिवमेकबुद्ध्या ॥६१॥
वेदान्तसिद्धान्तमयं दबाळुं सत्साङ्ख्यशास्त्रप्रतिपाद्यमानम ।
न्यायप्रसिद्धं सुतरां समिद्धं भजस्व विष्णुं शिवमेकबुद्ध्या ॥६२॥
पापापहारं रुचिरप्रचारं कृतोपकारं विलसद्विहारम ।
सद्धर्मधारं कमनीयदारं सारं हरिं वा भज भो हरं वा ॥६३॥
हरौ भेदमवेक्षमाणः प्राणी नितान्तं खलु तान्तचेताः ।
प्रेताधिपस्यैति पुरं दुरन्तं दुःखं च तत्र प्रथितं प्रयाति ॥६४॥
भो भो जना ज्ञानधना मनागप्यर्च्ये हरौ चापि हरे च नूनम ।
भेदं परित्यज्य मनो निरुध्य सुखं भवन्तः खलु तौ भजन्तु ॥६५॥
आनन्दसन्मन्दिरमिन्दुकान्तं शान्तं नितान्तं भुवनानि पान्तम ।
भान्तं सुदान्तं विहितासुरान्तं देवं शिवं वा भज केशवं वा ॥६६॥
हे हे हरे कृष्ण जनार्दनेश शंभो शशाङ्काभरणाधिदेव ।
नारायण श्रीश जगत्स्वरूप मां पाहि नित्यं शरणं प्रपन्नम ॥६७॥
विष्णो दशलोऽच्युत शार्ङ्गपाणे भूतेश शंभो शिव शर्व नाथ ।
मुकुन्द गोविन्द रमाधिपेश मां पाहि नित्यं शरणं प्रपन्नम ॥६८॥
कल्याणकारिन कमलापते हे गौरीपते भीम भवेश शर्व ।
गिरीश गौरीप्रिय शूलपाणे मां पाहि नित्यं शरणं प्रपन्नम ॥६९॥
हे शर्व हे शङ्कर हे पुरारे हे हे केशव हे कॄष्ण हे मुरारे ।
हे दीनबन्धो करुणैकसिन्धो मां पाहि नित्यं शरणं प्रपन्नम ॥७०॥
शेष भाग कल.......
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
. 💥“ज्ञान ही सच्ची संपत्ति है।
बाकी सब क्षणभंगुर है।”💥
🌼 ।। जय श्री कृष्ण ।।🌼
💥।। शुभम् भवतु।।💥
♨️ ⚜️ 🕉🌞 🌞🕉 ⚜🚩
अगर आपको हमारा पंचांग नियमित चाहिए तो आप मुझे फॉलो करे
https://whatsapp.com/channel/0029Va65aSaKrWR
♨️ ⚜️ 🕉🌞 🌞🕉 ⚜🚩
🔱🇪🇬जय श्री महाकाल सरकार 🔱🇪🇬 मोर मुकुट बंशीवाले सेठ की जय हो 🪷*
▬▬▬▬▬▬▬ஜ۩۞۩ஜ
*♥️~यह पंचांग नागौर (राजस्थान) सूर्योदय के अनुसार है।*
*अस्वीकरण(Disclaimer)पंचांग, धर्म, ज्योतिष, त्यौहार की जानकारी शास्त्रों से ली गई है।*
*हमारा उद्देश्य मात्र आपको केवल जानकारी देना है। इस संदर्भ में हम किसी प्रकार का कोई दावा नहीं करते हैं।*
*राशि रत्न,वास्तु आदि विषयों पर प्रकाशित सामग्री केवल आपकी जानकारी के लिए हैं अतः संबंधित कोई भी कार्य या प्रयोग करने से पहले किसी अच्छी जानकारी वाले ज्योतिषी से संपर्क करे।
*♥️ रमल ज्योतिर्विद आचार्य दिनेश "प्रेमजी", नागौर (राज,)*
*।।आपका आज का दिन शुभ मंगलमय हो।।*
🕉️📿🔥🌞🚩🔱ॐ 🇪🇬🔱🔥🔱





